कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन । निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः
इति गोगोकुलपतिं गोविन्दमभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम्
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् । स्वे स्वे स्थाने त्वभिमुखान् पूजयेत् प्रोक्षणादिभिः
चन्दनोशीरकर्पूर कुङ्कुमागुरुवासितैः । सलिलैः स्नापयेन्मन्त्रैः नित्यदा विभवे सति
स्वर्णघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः
वस्त्रोपवीताभरण पत्रस्रग्गन्धलेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम्
पाद्यं आचमनीयं च गन्धं सुमनसोऽक्षतान् । धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् । संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत्
अभ्यङ्गोन्मर्दनादर्श दन्तधावाभिषेचनम् । अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम्
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निमाधाय परितः समूहेत् पाणिनोदितम्
परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि । प्रोक्षण्याऽऽसाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम्
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम्
स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम्
ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूलमन्त्रं जपेद् ब्रह्म स्मरन्नारायणात्मकम्
दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यमथाहयेत्
उपगायन् गृणन् नृत्यन् कर्माणि अभिनयन् मम । मत्कथाः श्रावयन् श्रृण्वन् मुहूर्तं क्षणिको भवेत्
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि । स्तुत्वा प्रसीद भगवन् इति वन्देत दण्डवत्
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्
इति शेषां मया दत्तां शिरस्याधाय सादरम् । उद्वासयेद् चेद् उद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः
अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः
एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम्
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान्
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात्
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात्
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभते एवं यः पूजयेत माम्
यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः । वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम्
कर्तुश्च सारथेहेतोः अनुमोदितुरेव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम्
विकालेऽवगाहनाद् वरुणदूतेन वरुणालयं नीतस्य नंदस्य भगवता पुनरनयनम् - श्रीशुक उवाच - ( अनुष्टुप् ) एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि