सदा सेव्या सदा सेव्या श्रीमद्भागवती कथा । यस्याः श्रवणमात्रेण हरिश्चित्तं समाश्रयेत्
ग्रन्थोऽष्टादशसाहस्त्रो द्वादशस्कन्धसम्मितः । परीक्षित् शुकसंवादः श्रृणु भागवतं च तत्
तात संसारचक्रेऽस्मिन् भ्रमतेऽज्ञानतः पुमान् । यावत् कर्णगता नास्ति शुकशास्त्रकथा क्षणम्
किं श्रुतैबहुभिः शास्त्रैः पुराणैश्च भ्रमावहैः । एकं भागवतं शास्त्रं मुक्तिदानेन गर्जति
कथा भागवतस्यापि नित्यं भवति यद्गृहे । तद्गृहं तीर्थरूपं हि वसतां पापनाशनम्
अश्वमेधसहस्राणि वाजपेयशतानि च । शुकशास्त्रकथायाश्च कलां नार्हन्ति षोडशीम्
तावत् पापानि देहेस्मिन् निवसन्ति तपोधनाः । यावत् न श्रूयते सम्यक् श्रीमद्भागवतं नरैः
न गंगा न गया काशी पुष्करं न प्रयागकम् । शुकशास्त्रकथायाश्च फलेन समतां नयेत्
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् । पठस्व स्वमुखेनैव यदीच्छसि परां गतिम्
वेदादिः वेदमाता च पौरुषं सूक्तमेव च । त्रयी भागवतं चैव द्वादशाक्षर एव च
द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः । ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा
तुलसी च वसन्तश्च पुरुषोत्तम एव च । एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते
यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् । जन्मकोटिकृतं पापं नश्यते नात्र संशयः
श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः । नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः
उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् । तुलसीपोषणं चैव धेनूनां सेवनं समम्
अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् । प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति
हेमसिंहयुतं चैतत् वैष्णवाय ददाति च । कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम्
(वसंततिलका) आजन्ममात्रमपि येन शठेन किंचित् चित्तं विधाय शुकशास्त्रकथा न पीता । चाण्डालवत् च खरवत् बत तेन नीतं मिथ्या स्वजन्म जननी जनिदुःखभाजा
जीवच्छवो निगदितः स तु पापकर्मा येन श्रुतं शुककथावचनं न किंचित् । धिक् तं नरं पशुसमं भुवि भाररूपम् एवं वदन्ति दिवि देवसमाजमुख्याः
(अनुष्टुप्) दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा । कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते
तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्नतः । दिनानां नियमो नास्ति सर्वदा श्रवणं मतम्
सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् । अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया
मनोवृत्तिजयश्चैव नियमाचरणं तथा । दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम्
श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् । तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम्
मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् । कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम्
यत्फलं नास्ति तपसा न योगेन समाधिना । अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत्
यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् । तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति
योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति । किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति
शौनक उवाच - (इंद्रवंशा) साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्मान् विगणय्य साम्प्रतम् । निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसूचकम्
सूत उवाच - (अनुष्टुप्) यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः । एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत्