नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् । नद्यस्ततः समभवन् उदरं निरभिद्यत
क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् । अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम्
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः । अहङ्कारस्ततो रुद्रः चित्तं चैत्यस्ततोऽभवत्
एते हि अभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात्
वह्निर्वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् । घ्राणेन नासिके वायुः नोदतिष्ठत् तदा विराट्
अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् । श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट्
त्वचं रोमभिरोषध्यो नोदतिष्ठत् तदा विराट् । रेतसा शिश्नमापस्तु नोदतिष्ठत् तदा विराट्
गुदं मृत्युरपानेन नोदतिष्ठत् तदा विराट् । हस्ताविन्द्रो बलेनैव नोदतिष्ठत् तदा विराट्
विष्णुर्गत्यैव चरणौ नोदतिष्ठत् तदा विराट् । नाडीर्नद्यो लोहितेन नोदतिष्ठत् तदा विराट्
क्षुत्तृड्भ्यां उदरं सिन्धुः नोदतिष्ठत् तदा विराट् । हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट्
बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् । रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट्
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा । विराट्तदैव पुरुषः सलिलाद् उदतिष्ठत
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः । प्रभवन्ति विना येन नोत्थापयितुमोजसा
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत्
विगतमदस्य इंद्रस्य श्रीकृष्णसन्निधौ क्षमाप्रार्थनम् - श्रीशुक उवाच - ( अनुष्टुप् ) गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजज् कृष्णं सुरभिः शक्र एव च
विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः
इन्द्र उवाच - ( मिश्र ) विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः
कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः । तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय
पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम्
( इंद्रवंशा ) ये मद्विधाज्ञा जगदीशमानिनः त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम्
( मिश्र ) स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् । क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती
तवावतारोऽयमधोक्षजेह भुवो भराणां उरुभारजन्मनाम् । चमूपतीनामभवाय देव भवाय युष्मत् चरणानुवर्तिनाम्
( अनुष्टुप् ) नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः
मयेदं भगवन् गोष्ठ नाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना
त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः
श्रीशुक उवाच - एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन् इदमब्रवीत्
श्रीभगवानुवाच - मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम्
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्