ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि
भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते । मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि
यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा
निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् । सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम्
अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् । धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम्
सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहमेव च
वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः । मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह
मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च । एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः
चालनं व्यूहनं प्राप्तिः नेतृत्वं द्रव्यशब्दयोः । सर्वेन्द्रियाणां आत्मत्वं वायोः कर्माभिलक्षणम्
वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् । समुत्थितं ततस्तेजः चक्षू रूपोपलम्भनम्
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च । तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः
द्योतनं पचनं पानं अदनं हिममर्दनम् । तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च
रूपमात्राद् विकुर्वाणात् तेजसो दैवचोदितात् । रसमात्रं अभूत् तस्मात् अम्भो जिह्वा रसग्रहः
कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वं अम्भसो वृत्तयस्त्विमाः
रसमात्राद् विकुर्वाणात् अम्भसो दैवचोदितात् । गन्धमात्रं अभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः
करम्भपूतिसौरभ्य शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् । सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम्
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते । वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते । अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः । भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते
परस्य दृश्यते धर्मो हि, अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमावेवोपलक्ष्यते
एतान्यसंहत्य यदा महदादीनि सप्त वै । कालकर्मगुणोपेतो जगदादिरुपाविशत्
ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डं अचेतनम् । उत्थितं पुरुषो यस्मात् उदतिष्ठदसौ विराट्
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः । यत्र लोकवितानोऽयं रूपं भगवतो हरेः
हिरण्मयाद् अण्डकोशाद् उत्थाय सलिलेशयात् । तमाविश्य महादेवो बहुधा निर्बिभेद खम्
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् । वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः
घ्राणात् वायुरभिद्येतां अक्षिणी चक्षुरेतयोः । तस्मात्सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः
निर्बिभेद विराजस्त्वग् रोमश्मश्र्वादयस्ततः । तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः
रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् । गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् । पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः