शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः । जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप
( मिश्र ) ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः
गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः। निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः
रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः। सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः। सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम्
जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः। मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत्
अथो विभूतिं मम मायाविनस्तां ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम्
इमं लोकं तथैव अमुं आत्मानं उभयायिनम् । आत्मानं अनु ये चेह ये रायः पशवो गृहाः
विसृज्य सर्वान् अन्यांश्च मामेवं विश्वतोमुखम् । भजन्ति अनन्यया भक्त्या तान्मृत्योरतिपारये
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते
मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्भयात्
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम्
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः । पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये
खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः
नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम्
मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ । विषयौ याति पुरराड् रसज्ञविपणान्वितः
पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः
निर्ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः
अन्धावमीषां पौराणां निर्वाक् पेशस्कृतावुभौ । अक्षण्वतामधिपतिः ताभ्यां याति करोति च
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम्
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः । महिषी यद् यद् ईहेत तत्तद् एवान्ववर्तत
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् हसन्त्यां हसति जल्पन्त्यामनु जल्पति
क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायां अन्वास्ते क्वचिदासतीम्
क्वचित् श्रृणोति श्रृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्