तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम्
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः । समाहितधियः सर्व एतदभ्यसतादृताः
इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः । भृग्वादीनां आत्मजानां सिसृक्षुः संसिसृक्षताम्
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः
अथेदं नित्यदा युक्तो जपन् अवहितः पुमान् । अचिरात् श्रेय आप्नोति वासुदेवपरायणः
श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम्
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिं आराधयत्यसौ
विन्दते पुरुषोऽमुष्माद् यद्यद् इच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीतात् श्रेयसामेकवल्लभात्
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयात् श्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः
गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम्
कोपान् मुसलधारावर्षं वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम् - श्रीशुक उवाच - ( अनुष्टुप् ) इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह
गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम्
यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्
वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम्
एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम्
अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् । मरुद्गणैर्महावेगैः नन्दगोष्ठजिघांसया
श्रीशुक उवाच - इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा
विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः
स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः । जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम्
अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः
शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः
कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल
शिलावर्षानिपातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः
अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् । स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति
तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये । लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः
न हि सद्भावयुक्तानां सुराणामीशविस्मयः । मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते
तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः
इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया कृष्णः छत्राकमिव बालकः
अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः