येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावमविदं येन गच्छन्ति तत्पदम्
एतत् संसूचितं ब्रह्मन् तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्
आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे
यदत्र क्रियते कर्म भगवत् परितोषणम् । ज्ञानं यत् तद् अधीनं हि भक्तियोगसमन्वितम्
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च
नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च
इति मूर्त्यभिधानेन मंत्रमूर्तिममूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान्
इमं स्वनिगमं ब्रह्मन् अवेत्य मदनुष्ठितम् । अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशवः
(इंद्रवंशा) त्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां संक्लेशनिर्वाणमुशन्ति नान्यथा
सूत उवाच । (अनुष्टुप्) एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः
व्यास उवाच । भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किमकरोद्भवान्
स्वायंभुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदमुदस्राक्षीः काले प्राप्ते कलेवरम्
प्राक्कल्पविषयामेतां स्मृतिं ते सुरसत्तम । न ह्येष व्यवधात्काल एष सर्वनिराकृतिः
नारद उवाच । भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम्
एकात्मजा मे जननी योषिन्मूढा च किङ्करी । मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबंधनम्
सास्वतंत्रा न कल्पासीद् योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा
अहं च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः
एकदा निर्गतां गेहाद् दुहन्तीं निशि गां पथि । सर्पोऽदशत्पदा स्पृष्टः कृपणां कालचोदितः
तदा तदहमीशस्य भक्तानां शमभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशमुत्तराम्
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च
चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशयान् शिवजलान् नलिनीः सुरसेविताः
चित्रस्वनैः पत्ररथैः विभ्रमद् भ्रमरश्रियः । नलवेणुशरस्तम्ब कुशकीचकगह्वरम्
एक एवातियातोऽहं अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम्
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम्
ध्यायतश्चरणांभोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिः
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतः । आनंदसंप्लवे लीनो नापश्यमुभयं मुने
रूपं भगवतो यत्तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद् दुर्मना इव
दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यं अवितृप्त इवातुरः