मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति
मैत्रेय उवाच - एवं समुदितस्तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः
मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः
स्फुरत्किरीटवलय हारनूपुरमेखलम् । शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत्
सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत्
पूररेचकसंविग्न वलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्तगभीरया
श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम्
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम्
(अनुष्टुप्) एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम्
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः
तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोः अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम्
(अनुष्टुप्) यत्रेदं व्यज्यते विश्वं विश्वस्मिन् अवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिः आकाशमिव विस्तृतम्
यो माययेदं पुरुरूपयासृजद् बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च ते एव कोविदाः
त्वमेक आद्यः पुरुषः सुप्तशक्तिः तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः
सृष्टं स्वशक्त्येदमनुप्रविष्टः चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तः भुङ्क्ते हृषीकैर्मधु सारघं यः
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः
प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश
(अनुष्टुप्) अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तं अकुतश्चिद्भया गतिः
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवति अर्पिताशयाः