श्रीशुक उवाच - कालात्मना भगवता शक्रदर्पं जिघांसता । प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः
तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः । वाचयित्वा स्वस्त्ययनं तद् द्रव्येण गिरिद्विजान्
उपहृत्य बलीन् सम्यग् सर्वान् आदृता यवसं गवाम् । गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम्
अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः । गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः
कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः । शैलोऽस्मीति ब्रुवन् भूरि बलिमादद् बृहद्वपुः
तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनाऽऽत्मने । अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात्
एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः । हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम्
इत्यद्रिगोद्विजमखं वासुदेवप्रचोदिताः । यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् । आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति
मैत्रेय उवाच - एवं समुदितस्तेन कपिलेन प्रजापतिः । दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह
व्रतं स आस्थितो मौनं आत्मैकशरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीं अनग्निरनिकेतनः
मनो ब्रह्मणि युञ्जानो यत्तत् सदसतः परम् । गुणावभासे विगुण एकभक्त्यानुभाविते
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् । प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि । परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः
आत्मानं सर्वभूतेषु भगवन्तं अवस्थितम् । अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा । भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः
स्फुरत्किरीटवलय हारनूपुरमेखलम् । शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत्
सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत्
पूररेचकसंविग्न वलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्तगभीरया
श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम्
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम्
(अनुष्टुप्) एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम्
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः
तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोः अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम्