स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः । जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे
अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु
स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम्
इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन्
ग्रहा निमित्तं सुखदुःखयोश्चेत्किमात्मनोऽजस्य जनस्य ते वै। ग्रहैर्ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस्ततोऽन्यः
कर्मास्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तद्धि जडाजडत्वे। देहस्त्वचित्पुरुषोऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम्
कालस्तु हेतुः सुखदुःखयोश्चेत्किमात्मनस्तत्र तदात्मकोऽसौ। नाग्नेर्हि तापो न हिमस्य तत्स्यात्क्रुध्येत कस्मै न परस्य द्वन्द्वम्
न केनचित्क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य। यथाहमः संसृतिरूपिणः स्यादेवं प्रबुद्धो न बिभेति भूतैः
एतां स आस्थाय परात्मनिष्ठामध्यासितां पूर्वतमैर्महर्षिभिः। अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव
श्रीभगवानुवाच। निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम्। निराकृतोऽसद्भिरपि स्वधर्मादकम्पितोऽमूं मुनिराह गाथाम्
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः। मित्रोदासीनरिपवः संसारस्तमसः कृतः
तस्मात्सर्वात्मना तात निगृहाण मनो धिया। मय्यावेशितया युक्त एतावान्योगसङ्ग्रहः
य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः। धारयञ्छ्रावयञ्छृण्वन्द्वन्द्वैर्नैवाभिभूयते
इंद्रमखभङ्ग - श्रीशुक उवाच - ( अनुष्टुप् ) भगवानपि तत्रैव बलदेवेन संयुतः । अपश्यत् निवसन् गोपान् इन्द्रयागकृतोद्यमान्
तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः । प्रश्रयावनतोऽपृच्छत् वृद्धान् नन्दपुरोगमान्
कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः । किं फलं कस्य चोद्देशः केन वा साध्यते मखः
एतद्ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह
अस्त्यस्व-परदृष्टीनां अमित्रोदास्तविद्विषाम् । उदासीनोऽरिवद् वर्ज्य आत्मवत् सुहृदुच्यते
ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात् तथा नाविदुषो भवेत्
तत्र तावत् क्रियायोगो भवतां किं विचारितः । अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम्
श्रीनन्द उवाच - पर्जन्यो भगवान् इन्द्रो मेघास्तस्यात्ममूर्तयः । तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः
तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् । द्रव्यैस्तद् रेतसा सिद्धैः यजन्ते क्रतुभिर्नराः
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः
य एनं विसृजेत् धर्मं परम्पर्यागतं नरः । कामाल्लोभात् भयाद् द्वेषात् स वै नाप्नोति शोभनम्
श्रीशुक उवाच - वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः
श्रीभगवानुवाच - कर्मणा जायते जन्तुः कर्मणैव विलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते
अस्ति चेदीश्वरः कश्चित् फलरूप्यन्यकर्मणाम् । कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः
किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम्
स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते । स्वभावस्थमिदं सर्वं सदेवासुरमानुषम्