सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम्। विदुषामपि विश्वात्मन्प्रकृतिर्हि बलीयसी। ऋते त्वद्धर्मनिरतान्शान्तास्ते चरणालयान्
बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु
कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव
अन्नयाञ्चामिषेण यज्ञपत्नीषु अनुग्रहः - श्रीगोप ऊचुः - ( अनुष्टुप् ) राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः
श्रीशुक उवाच - इति विज्ञापितो गोपैः भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत्
प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रं आङ्गिरसं नाम ह्यासते स्वर्गकाम्यया
तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्
इत्यादिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि
हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान्
( मिश्र ) गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः
( अनुष्टुप् ) दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति
इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः
देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः
तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे
न ते यदोमिति प्रोचुः न नेति च परन्तप । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः
तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः । व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम्
मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् । दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया
गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः । नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन्
नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः । इतोऽविदूरे चरता कृष्णेनेहेषिता वयम्
गाश्चारयन् स गोपालैः सरामो दूरमागतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम्
श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः
चतुर्विधं बहुगुणं अन्नमादाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः
निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः । भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः
यमुनोपवनेऽशोक नवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः
( वसंततिलका ) श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम्
प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र
( अनुष्टुप् ) तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः
स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः
नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा
प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः