स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ। तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति
इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि। बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद्यथा
नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च। कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते
यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः। तथैव सर्वभूतानां वयोऽवस्थादयः कृताः
सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम्। सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम्
मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान्। म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः
निषेकगर्भजन्मानि बाल्यकौमारयौवनम्। वयोमध्यं जरा मृत्युरित्यवस्थास्तनोर्नव
एता मनोरथमयीर्हान्यस्योच्चावचास्तनूः। गुणसङ्गादुपादत्ते क्वचित्कश्चिज्जहाति च
आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ। न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः
तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ। तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक्
प्रकृतेरेवमात्मानमविविच्याबुधः पुमान्। तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते
सत्त्वसङ्गादृषीन्देवान्रजसासुरमानुषान्। तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः
नृत्यतो गायतः पश्यन्यथैवानुकरोति तान्। एवं बुद्धिगुणान्पश्यन्ननीहोऽप्यनुकार्यते
यथाम्भसा प्रचलता तरवोऽपि चला इव। चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः
यथा मनोरथधियो विषयानुभवो मृषा। स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः
अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते। ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा
तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः। आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम्
क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा। ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः
निष्ठ्युतो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः। श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत्
श्रीउद्धव उवाच। यथैवमनुबुध्येयं वद नो वदतां वर
सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम्। विदुषामपि विश्वात्मन्प्रकृतिर्हि बलीयसी। ऋते त्वद्धर्मनिरतान्शान्तास्ते चरणालयान्
बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु
कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव
अन्नयाञ्चामिषेण यज्ञपत्नीषु अनुग्रहः - श्रीगोप ऊचुः - ( अनुष्टुप् ) राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः
श्रीशुक उवाच - इति विज्ञापितो गोपैः भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत्
प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रं आङ्गिरसं नाम ह्यासते स्वर्गकाम्यया
तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्
इत्यादिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि
हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान्
( मिश्र ) गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः