इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम्
वेदान्तवेदसुस्नाते गीताया अपि कर्तरि । परितापवति व्यासे मुह्यत्यज्ञानसागरे
तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् । तदीयश्रवणात् सद्यो निर्बाधो बादरायणः
तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् । श्रीमद्भागवतं श्राव्य शोकदुःखविनाशनम्
नारद उवाच - (वसंतितिलका) यद्दर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम् । निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गतोऽस्मि
भाग्योदयेन बहुजन्मसमर्जितेन सत्संगमं च लभते पुरुषो यदा वै । अज्ञानहेतुकृतमोहमदान्धकार नाशं विधाय हि तदोदयते विवेकः
श्रीमद्भागवतमाहात्म्यम् - तृतीयोऽध्यायः सनकादिमुखात् श्रीमद्भागवतश्रवणेन भक्त्तेस्तुष्टीर्ज्ञानवैराग्ययोः पुष्टिश्च - नारद उवाच - (अनुष्टुप्) ज्ञानयज्ञं करिष्यामि शुकशास्त्रकथोज्ज्वलम् । भक्तिर्ज्ञानविरागाणां स्थापनार्थं प्रयत्नतः
कुत्र कार्यो मया यज्ञः स्थलं तद्वाच्यतामिह । महिमा शुकशास्त्रस्य वक्तव्यो वेदपारगैः
कियद्भिः दिवसैः श्राव्या श्रीमद्भागवती कथा । को विधिः तत्र कर्तव्यो ममेदं ब्रुवतामितः
कुमारा ऊचुः - श्रृणु नारद वक्ष्यामो विनम्राय विवेकिने । गंगाद्वारसमीपे तु तटं आनन्दनामकम्
नानाऋषिगणैर्जुष्टं देवसिद्धनिषेवनम् । नानातरुलताकीर्णं नवकोमलवालुकम्
रम्यं एकान्तदेशस्थं हेमपद्मसुसौरभम् । यत्समीपस्थजीवानां वैरं चेतसि न स्थितम्
ज्ञानयज्ञस्त्वया तत्र कर्तव्यो हि अप्रयत्नतः । अपूर्वरसरूपा च कथा तत्र भविष्यति
पुरःस्थं निर्बलं चैव जराजीर्णकलेवरम् । तद्द्वयं च पुरस्कृत्य भक्तिस्तत्रागमिष्यति
यत्र भागवती वार्ता तत्र भक्त्यादिकं व्रजेत् । कथाशब्दं समाकर्ण्य तत्त्रिकं तरुणायते
सूत उवाच - एवमुक्त्वा कुमारास्ते नारदेन समं ततः । गंगातटं समाजग्मुः कथापानाय सत्वराः
यदा यातास्तटं ते तु तदा कोलाहलोऽप्यभूत् । भूर्लोके देवलोके च ब्रह्मलोके तथैव च
श्रीभागवतपीयूष पानाय रसलम्पटाः । धावन्तोऽप्याययुः सर्वे प्रथमं ये च वैष्णवाः
(वंशस्थ) भृगुर्वसिष्ठश्च्यवनश्च गौतमो मेधातिथिर्देवलदेवरातौ । रामस्तथा गाधिसुतश्च शाकलो मृकण्डुपुत्रात्रिजपिप्पलादाः
(इंद्रवज्रा) योगेश्वरौ व्यासपराशरौ च छायाशुको जाजलिजह्नुमुख्याः । सर्वेऽप्यमी मुनिगणाः सहपुत्रशिष्याः स्वस्त्रीभिराययुरतिप्रणयेन युक्ताः
(अनुष्टुप्) वेदान्तानि च वेदाश्च मन्त्रास्तन्त्राः समूर्तयः । दशसप्तपुराणानि षट्शास्त्राणि तथाऽऽययुः
गंगाद्या सरितस्तत्र पुष्करादिसरांसि च । क्षेत्राणि च दिशः सर्वा दण्डकादि वनानि च
नगादयो ययुस्तत्र देवगन्धर्वदानवाः । गुरुत्वात्तत्र नायातान् भृगुः सम्बोध्य चानयत्
दीक्षिता नारदेनाथ दत्तं आसनमुत्तमम् । कुमारा वन्दिताः सर्वैः निषेदुः कृष्णतत्पराः
वैष्णवाश्च विरक्ताश्च न्यासिनो ब्रह्मचारिणः । मुखभागे स्थितास्ते च तदग्रे नारदः स्थितः
एकभागे ऋषिगणाः तद् अन्यत्र दिवौकसः । वेदोपनिषदो अन्यत्र तीर्थान् यत्र स्त्रियोऽन्यतः
जयशब्दो नमःशब्दोः शंखशब्दस्तथैव च । चूर्णलाजा प्रसूनानां निक्षेपः सुमहान् अभूत्
विमानानि समारुह्य कियन्तो देवनायकाः । कल्पवृक्ष प्रसूनैस्तान् सर्वान् तत्र समाकिरन्
सूत उवाच - एवं तेष्वकचित्तेषु श्रीमद्भागवस्य च । माहात्म्यं ऊचिरे स्पष्टं नारदाय महात्मने
कुमारा ऊचुः - अथ ते वर्ण्यतेऽस्माभिः महिमा शुकशास्त्रजः । यस्य श्रवणमात्रेण मुक्तिः करतले स्थिता