मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः
श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे
श्रीभगवानुवाच । भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः
ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः
भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम्
( मिश्र ) यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत् तदु देवहेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः कृत्वा नमोऽधो वसनं प्रगृह्यताम्
( इंद्रवंशा ) इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग् यतः
( अनुष्टुप् ) तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः
( मिश्र ) दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः
( अनुष्टुप् ) परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां सङ्कल्पं आह दामोदरोऽबलाः
सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् । मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति
न मय्यावेशितधियां कामः कामाय कल्पते । भर्जिता क्वथिता धाना प्रायो बीजाय नेशते
याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः
श्रीशुक उवाच । इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम्
अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः
निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः
हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः
अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः
पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते
एतावत् जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा
इति प्रवालस्तबक फलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्यतो यमुनां गतः
तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम्
तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन्
विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः। जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः
जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद। विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः
स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ। तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति
इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि। बहिरन्तर्भिदाहेतुर्जनोऽसज्जनकृद्यथा
नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च। कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते