कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते
न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः। उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः
ते मे मतमविज्ञाय परोक्षं विषयात्मकाः। हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना
हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया। यजन्ते देवता यज्ञैः पितृभूतपतीन्खलाः
स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम्। आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान्यथा वणिक्
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः। उपासत इन्द्र मुख्यान्देवादीन्न यथैव माम्
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि। तस्यान्त इह भूयास्म महाशाला महाकुलाः
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम्। मानिनां चातिलुब्धानां मद्वार्तापि न रोचते
वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे। परोक्षवादा ऋषयः परोक्षं मम च प्रियम्
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम्। अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत्
मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना। भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते
यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात्। आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा
छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः। ॐकाराद्व्यञ्जितस्पर्श स्वरोष्मान्तस्थभूषिताम्
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः। अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम्
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च। त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट्
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत्। इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम्। एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति
तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम्
प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम्
विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्व्याहृतामृतकला पीयूषश्रवणेन च
प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् । उपसंश्रित्य मलिनं यथार्हणं असंस्कृतम्
अथोटजमुपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया
गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवदादेशं इत्याह श्लक्ष्णया गिरा
नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी
योऽर्केन्दु अग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः
न यदा रथमास्थाय जैत्रं मणिगणार्पितम् । विस्फूर्जत् चण्डकोदण्डो रथेन त्रासयन् अघान्
स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटसि अंशुमानिव
तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः । भगवद् रचिता राजन् भिद्येरन् बत दस्युभिः
अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः । शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति
अथापि पृच्छे त्वां वीर यदर्थं त्वं इहागतः । तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा