पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम्
हन्तायमद्रिरबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोदः । मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवस कन्दरकन्दमूलैः
गा गोपकैरनुवनं नयतोरुदार वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरुणां निर्योगपाशकृत लक्षणयोर्विचित्रम्
( अनुष्टुप् ) एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः
विषयाभिनिवेशेन नात्मानं वेद नापरम्। वृक्ष जीविकया जीवन्व्यर्थं भस्त्रेव यः श्वसन्
फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम्। श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम्
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च। आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु
न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि। कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः
एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः। फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि
कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः। अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते
न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः। उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः
ते मे मतमविज्ञाय परोक्षं विषयात्मकाः। हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना
हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया। यजन्ते देवता यज्ञैः पितृभूतपतीन्खलाः
स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम्। आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान्यथा वणिक्
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः। उपासत इन्द्र मुख्यान्देवादीन्न यथैव माम्
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि। तस्यान्त इह भूयास्म महाशाला महाकुलाः
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम्। मानिनां चातिलुब्धानां मद्वार्तापि न रोचते
वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे। परोक्षवादा ऋषयः परोक्षं मम च प्रियम्
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम्। अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत्
मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना। भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते
यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात्। आकाशाद्घोषवान्प्राणो मनसा स्पर्शरूपिणा
छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः। ॐकाराद्व्यञ्जितस्पर्श स्वरोष्मान्तस्थभूषिताम्
विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः। अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम्
गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च। त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट्
किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत्। इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन
मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम्। एतावान्सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति
तथैव हरिणैः क्रोडैः श्वावित् गवय कुञ्जरैः । गोपुच्छैः हरिभिः मर्कैः नकुलैः नाभिभिर्वृतम्
प्रविश्य तत्तीर्थवरं आदिराजः सहात्मजः । ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम्
विद्योतमानं वपुषा तपसि उग्रयुजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्व्याहृतामृतकला पीयूषश्रवणेन च