गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः । बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः
वणिङ्मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्
अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे
तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः । यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत्
वेणुगीतम् - भगवतो मधुरं वेणुनादं आकर्ण्य गोपीभिः तद्गुणगानम् श्रीशुक उवाच । ( अनुष्टुप् ) इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः
( पुष्पिताग्रा ) कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम्
( अनुष्टुप् ) तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन्
तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप
( मंदाक्रांता ) बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं । बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् । रन्ध्रान् वेणोरधरसुधयापूरयन् गोपवृन्दैः । वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः
( अनुष्टुप् ) इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे
श्रीगोप्य ऊचुः । ( वसंततिलका ) अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननु विवेशयतोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं यैर्वा निपीतमनुरक्त-कटाक्षमोक्षम्
चूतप्रवालबर्हस्तबक् उत्पलाब्ज मालानुपृक्तपरिधान विचित्रवेशौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ
गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः
वृन्दावनं सखि भुवो वितनोति कीर्तिं यद् देवकीसुतपदाम्बु जलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम्
धन्याः स्म मूढमतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्त विचित्रवेशम् । आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणु विविक्तगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत् प्रसूनकबरा मुमुहुर्विनीव्यः
गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थुः गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः
प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् श्रृण्वत्यमीलितदृशो विगतान्यवाचः
नद्यस्तदा तदुपधार्य मुकुन्दगीतम् आवर्तलक्षित मनोभवभग्नवेगाः । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेः गृह्णन्ति पादयुगलं कमलोपहाराः
दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः सञ्चारयन्तमनु वेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम्
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम्
हन्तायमद्रिरबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोदः । मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवस कन्दरकन्दमूलैः
गा गोपकैरनुवनं नयतोरुदार वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरुणां निर्योगपाशकृत लक्षणयोर्विचित्रम्
( अनुष्टुप् ) एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः
विषयाभिनिवेशेन नात्मानं वेद नापरम्। वृक्ष जीविकया जीवन्व्यर्थं भस्त्रेव यः श्वसन्