धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः
वनौकसः प्रमुदिता वनराजीर्मधुच्युतः । जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः
क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः
दध्योदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः
शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः
प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् । भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम्
एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला
शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया
व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम् । शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम्
सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः
गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः
गाधवारिचरास्तापं अविन्दन् शरदर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः
शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः । यथाहंममतां धीराः शरीरादिष्वनात्मसु
निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे । आत्मनि उपरते सम्यङ् मुनिर्व्युपरतागमः
केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः
शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम्
खमशोभत निर्मेघं शरद् विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम्
अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि
आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः
गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः । बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः
वणिङ्मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते
तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्
अहो एतत् जगत्स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकं अन्नमदाम हे
तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिः हृषीकेशः ससर्जाभिमताः प्रजाः
तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः । यत्तत् समाधियोगर्द्धि तपोविद्याविरक्तिमत्
वेणुगीतम् - भगवतो मधुरं वेणुनादं आकर्ण्य गोपीभिः तद्गुणगानम् श्रीशुक उवाच । ( अनुष्टुप् ) इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः
( पुष्पिताग्रा ) कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम्