श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः। दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित्
मूर्खो देहाद्यहंबुद्धिः पन्था मन्निगमः स्मृतः। उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः
नरकस्तमउन्नाहो बन्धुर्गुरुरहं सखे। गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते
दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः। गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः
एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः। किं वर्णितेन बहुना लक्षणं गुणदोषयोः। गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः
प्रावृड्वर्णनं शरद्वर्णनं च - श्रीशुक उवाच । ( अनुष्टुप् ) तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ
ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा । विद्योतमानपरिधिः विस्फूर्जित नभस्तला
सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्नुभिः । अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ
अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु । स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते
तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः । प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव
तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम्
निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डा न हि वेदाः कलौ युगे
श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये
आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः । पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः
हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत्
क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः । मानिनां उनुतापं वै दैवाधीनं अजानताम्
जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया
सरिद्भी सङ्गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् । अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा
गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः
मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव
लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् । व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा
न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा
मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः । गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे
पीत्वापः पादपाः पद्भिः आसन्नानात्ममूर्तयः । प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया
सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः । गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः
जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा
व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः । यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः
एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः