तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप। किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः। अनन्यभावान्पार्षदानात्मनो मरुतां गणान्
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्
सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम्। संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः
सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन्। व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः
दितिरुत्थाय ददृशे कुमाराननलप्रभान्। इन्द्रेण सहितान्देवी पर्यतुष्यदनिन्दिता
अथेन्द्रमाह ताताहमादित्यानां भयावहम्। अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम्
एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम्। यदि ते विदितं पुत्र सत्यं कथय मा मृषा
इन्द्र उवाच। अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्। लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक्
कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः। तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे
ततस्तत्परमाश्चर्यं वीक्ष्य व्यवसितं मया। महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिणी
आराधनं भगवत ईहमाना निराशिषः। ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः
आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम्। को वृणीत गुणस्पर्शं बुधः स्यान्नरकेऽपि यत्
तदिदं मम दौर्जन्यं बालिशस्य महीयसि। क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः
श्रीशुक उवाच। इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया। मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः
एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। मङ्गलं मरुतां जन्म किं भूयः कथयामि ते
सूत उवाच । महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन् नात्मकृतं सुदुर्मनाः । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा
अद्यैव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मेऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः
स चिन्तयन्नित्थमथाशृणोद् यथा मुनेः सुतोक्तो निर्ऋतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम्
अथो विहायेमममुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत् प्रायममर्त्यनद्याम्
या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकानुभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः
इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः
अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतोऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ
मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिः द्वैपायनो भगवान् नारदश्च
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः
राजोवाच अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद् विसृष्टं बत गर्ह्यकर्म
तस्यैव मेऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते