अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात्
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः
तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः
धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट्
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत्
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः
नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः। शयीत नापराङ्नान्यैर्न नग्ना न च सन्ध्ययोः
धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता। पूजयेत्प्रातराशात्प्राग्गोविप्राञ्श्रियमच्युतम्
स्त्रियो वीरवतीश्चार्चेत्स्रग्गन्धबलिमण्डनैः। पतिं चार्च्योपतिष्ठेत ध्यायेत्कोष्ठगतं च तम्
सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम्। धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः
बाढमित्यभ्युपेत्याथ दिती राजन्महामनाः। कश्यपाद्गर्भमाधत्त व्रतं चाञ्जो दधार सा
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद। शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत्कविः
नित्यं वनात्सुमनसः फलमूलसमित्कुशान्। पत्राङ्कुरमृदोऽपश्च काले काल उपाहरत्
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप। प्रेप्सुः पर्यचरज्जिह्मो मृगहेव मृगाकृतिः
नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते। चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं त्विह
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता। अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता
लब्ध्वा तदन्तरं शक्रो निद्रा पहृतचेतसः। दितेः प्रविष्ट उदरं योगेशो योगमायया
चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम्। रुदन्तं सप्तधैकैकं मा रोदीरिति तान्पुनः
तमूचुः पाट्यमानास्ते सर्वे प्राञ्जलयो नृप। किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः। अनन्यभावान्पार्षदानात्मनो मरुतां गणान्
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया। बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान्
सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम्। संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः
सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतोऽभवन्। व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः
दितिरुत्थाय ददृशे कुमाराननलप्रभान्। इन्द्रेण सहितान्देवी पर्यतुष्यदनिन्दिता
अथेन्द्रमाह ताताहमादित्यानां भयावहम्। अपत्यमिच्छन्त्यचरं व्रतमेतत्सुदुष्करम्
एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन्कथम्। यदि ते विदितं पुत्र सत्यं कथय मा मृषा
इन्द्र उवाच। अम्ब तेऽहं व्यवसितमुपधार्यागतोऽन्तिकम्। लब्धान्तरोऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक्
कृत्तो मे सप्तधा गर्भ आसन्सप्त कुमारकाः। तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे