कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य । योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः
अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः
एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम्
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम्
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम्
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत
अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः । अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह
अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत्
एष किं निभृताशेष करणो मीलितेक्षणः । मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत्
अहो अधर्मः पालानां पीव्नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम्
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह
इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम्
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम्
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत्
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः
न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः
अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात्
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः
तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः
धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट्
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि