अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः
एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् । अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः
सूत उवाच । यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम्
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम्
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यां आभिमन्यव एकराट्
यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत्
किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते
उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया । वासुदेव कथोपेतं आख्यानं यदपृच्छत
या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः
ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः
को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य । नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः
तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन्
स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्
तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् । आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम्
सूत उवाच । अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य । योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः
अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः
एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम्
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम्
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम्
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत
अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः । अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह