सीदन् विप्रः वणिक् वृत्त्या पण्यैः एवापदं तरेत् । खड्गेन वा आपदाक्रांतो न श्ववृत्त्या कथञ्चन
वैश्यवृत्त्या तु राजन्यो जीवेत् मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन
शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा
वेदाध्याय स्वधा स्वाहा बलि अन्नाद्यैः यथोदयम् । देवर्षिपितृभूतानि मद् रूपाणि अन्वहं यजेत्
यदृच्छया उपपन्नेन शुक्लेन उपार्जितेन वा । धनेन अपीडयन् भृत्यान् न्यायेन एव आहरेत् क्रतून्
कुटुंबेषु न सज्जेत न प्रमाद्येत् कुटुंबी अपि । विपश्चित् नश्वरं पश्येद् अदृष्टमपि दृष्टवत्
पुत्रदारा आप्तबंधूनां संगमः पांथसङ्गमः । अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा
इत्थं परिमृशन् मुक्तो गृहेषु अतिथिवद् वसन् । न गृहैः अनुबध्येत निर्ममो निरहङ्कृतः
कर्मभिः गृहमेधीयैः इष्ट्वा मामेव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत्
यस्तु आसक्तमतिः गेहे पुत्रवित्तैषणा आतुरः । स्त्रैणः कृपणधीः मूढो मम अहं इति बध्यते
अहो मे पितरौ वृद्धौ भार्या बालात्मजऽऽत्मजाः । अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः
एवं गृहाशयाक्षिप्त हृदयो मूढधीः अयम् । अतृप्तस्तान् अनुध्यायन् मृतोऽन्धं विशते तमः
सूत उवाच । यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम्
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम्
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यां आभिमन्यव एकराट्
यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत्
किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते
उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया । वासुदेव कथोपेतं आख्यानं यदपृच्छत
या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः
ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः
को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य । नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः
तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन्
स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम्
तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् । आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम्
सूत उवाच । अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः