योगिना नारदेनापि स्वयं न ज्ञायते तु यत् । तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः
एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम्
ततश्चिन्तातुरः सोऽथ बदरीवनमागतः । तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः
तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् । कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः
नारद उवाच - इदानीं भूरिभाग्येन भवद्भिः संगमोऽभवत् । कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि
भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः । पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः
सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः । लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः
हरिः शरणमेव हि नित्यं येषां मुखे वचः । अथ कालसमादिष्टा जरा युष्मान्न बाधते
येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा । भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ
अहो भाग्यस्य योगेन दर्शनं भवतामिह । अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः
अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् । अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम्
भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् । स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः
कुमारा ऊचुः - मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह । उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि
अहो नारद धन्योऽसि विरक्तानां शिरोमणिः । सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः
त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि । घटते कृष्णदासस्य भक्तेः संस्थापना सदा
ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः । श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः
वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते । तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते
सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा । तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः
सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः । श्रीमद्भागवतालापः स तु गीतः शुकादिभिः
भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् । व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति
प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः । कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव
ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा । प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति
नारद उवाच - वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् । भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा
श्रीमद्भागवत आलापात् तत्कथं बोधमेष्यति । तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे
छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः । विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः
कुमारा ऊचुः - वेदोपनिषदां सारात् जाता भागवती कथा । अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः
आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा । सभूयः संपृथग्भूतः फले विश्वमनोहरः
यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते । पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम्
इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति । पृथग्भूता च सा मिष्टा तथा भागवती कथा