दिव्याम्बरस्रङ् मणिभिः परार्ध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम्
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः
गन्धधूपादिभिश्चार्चेद् द्वादशाक्षरविद्यया
सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम्
वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम्
गां च घर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम्
पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः
कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः
यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि
त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन्
न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः
मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि
यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः
एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहमसत्तमम्
कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम्
आख्याहि वृष भद्रं वः साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम्
जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते
अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम्
राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह
धर्म उवाच एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः
न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः
केचिद्विकल्पवसना आहुरात्मानमात्मनः । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम्
अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया
सूत उवाच एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम्
राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत्
अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चयः
तपः शौचं दया सत्यमिति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव
इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः
इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका