अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः
स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायां अनादृत्य अधिराट् श्रियम्
(वंशस्थ) नमन्ति यत्पादनिकेतमात्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियमङ्ग दुस्त्यजां युवैषतोत् स्रष्टुमहो सहासुभिः
शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थमसौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम्
(अनुष्टुप्) तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात्
सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद् योगी वासव्यां कलया हरेः
स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्तदेश आसीन उदिते रविमण्डले
परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे
भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान्निःसत्त्वान् दुर्मेधान् ह्रसितायुषः
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद् दध्यौ हितममोघदृक्
चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद् यज्ञसन्तत्यै वेदमेकं चतुर्विधम्
ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते
तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशंपायन एवैको निष्णातो यजुषामुत
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः
त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा । शिष्यैः प्रशिष्यैः तत् शिष्यैः वेदास्ते शाखिनोऽभवन्
त एव वेदा दुर्मेधैः धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः
स्त्रीशूद्रद्विजबंधूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम्
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यत् हृदयं ततः
नातिप्रसीदद् हृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं प्रोवाच धर्मवित्
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम्
भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत
तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असंपम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः
किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः
तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदोऽभ्यागाद् आश्रमं प्रागुदाहृतम्
तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयामास विधिवत् नारदं सुरपूजितम्
सूत उवाच । (अनुष्टुप्) अथ तं सुखमासीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निव
नारद उवाच । पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा
जिज्ञासितं सुसंपन्नं अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम्
जिज्ञासितमधीतं च यत्तद् ब्रह्म सनातनम् । तथापि शोचस्यात्मानं अकृतार्थ इव प्रभो
व्यास उवाच । (उपेंद्रवज्रा) अस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्