ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः । मनसा धारयामासुर्वैकुठचरणाम्बुजम
तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे । तस्मिन नारायणपदे एकान्तमतयो गतिम
अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विहुतकल्मषास्थाने विरजेनात्मनैव हि
विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ
द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम । वासुदेवे भगवति ह्योकान्तमतिराप तम
यः श्रद्धयैतद भगवत्प्रियाणां पाण्डोः सुतानामिती सम्प्रयाणम । श्रुणोत्यलं स्वत्ययनं पवित्रं लब्ध्या हरौ भक्तिमुपैति सिद्धिम
सूत उवाच ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा
स उत्तरस्य तनयामुपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान्
आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः
निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा
शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक्शूद्र कोऽसौ गां यः पदाहनत् । तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम्
अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किमन्यैरसदालापैरायुषो यदसद्व्ययः
क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् । इहोपहूतो भगवान्मृत्युः शामित्रकर्मणि
न कश्चिन्म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवानाहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः
मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः
सूत उवाच यदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददे
स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः
भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्
नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः
अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः
तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे
तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान्महामनाः
सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् । स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे
* तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् । नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे
धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्सामिव मातरम्
धर्म उवाच कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेन । आलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब
पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति
अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्
किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम्