यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः । अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि
सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \
नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य
शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे
सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य । अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि
तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति । सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम
राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः । विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम । अजानतामिव्यान्योन्य चतूः पंचावशेषिताः
प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः । दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः
एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः । यदुन यदुभिरन्योन्यं भुभारान संजहार ह
देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे
सूत उवाच । एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम । सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः
वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः
गीतं भगवता ज्ञान यत तत संग्राममुर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमद विभुः
विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः
निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः
पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं नाश यदुनां भगवद्गतिं च ताम । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपराम संसृतेः
ययाहरदृ भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितूः समम
यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः । भूभरः क्षपितो येन जहौ तच्च कलेवरम
यदा मुकुन्दो भगवानिमां महीं जहौ स्ततन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसा मधर्महेतूः कलिरन्ववर्तत
युधिष्ठिरस्तत्पर्सर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि । विभग्य लोभानृतजिह्नाहिंसना द्यधर्मचक्रं गमनाय पर्यधात
स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये
मथूरायां तथा वज्रं शुरसेनपतिं ततः । प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः
विसृज्य तत्र तत सर्व दुकुनलवलयादिकम । निर्ममो निरहंकारः संछिन्नाशेषबन्धनः
वाचं जुहाव मनसि तत्प्राण इतरे च तम । मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत
त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः । सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये
चीरवासा निराहारो बद्धवड मुक्तमूर्धजः । दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत
अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा । उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः । हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः
सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि