सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम्
( मिश्र ) समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम्
( अनुष्टुप् ) एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया । यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम्
( मिश्र ) एतत्सुहृद्भिश्चरितं मुरारेः अघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरोऽखिलार्थान्
( अनुष्टुप् ) एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः
सूत उवाच । एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः । नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः । विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम
कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः
सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन । नृपमग्रजमित्याह बाष्पगद्गदया गिरा
अर्जुन उवाच । वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा
यत्संश्रयाद् द्रुपदगेहमुपागतानां राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुष्याधिगता च कृष्णा
यत्संनिधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते
यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे आर्योऽनुजस्तव गजायुतसत्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते
पत्न्यास्तवधिमखक्लृप्तमहाभिषेकश्लाघिष्ठन्चारुकाबरं कितवैः सभायाम । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः
यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद दुर्वाससोऽरिविहतादयुताग्रभुग यः । शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं तृप्ताममंस्त सलिले विनिमंग्नसंघः
यत्तेजसाथ भगवान युधि शुलपाणि र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे । अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम
तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः । सेन्द्रा श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्र
यद्वान्धवः कुरुबलाब्धिमनन्तपार मेको रथेन ततरेऽहमतार्यसत्त्वम । प्रत्याहृतं बहु धनं च मयो परेषां तेजास्पदं मणीमयं च हृतं शिरोभ्यः
यो भीष्मकर्णगुरुशल्यमूष्वदभ्र रजन्यवर्यरथमण्डलमन्डितासु । अग्रेचरो मम विभो रथयूथपाना मायुर्मनांसि च दृशा सह ओज आर्च्छत
यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः । अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि
सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \
नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य
शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे
सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य । अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि
तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति । सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम
राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः । विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम । अजानतामिव्यान्योन्य चतूः पंचावशेषिताः
प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः
जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः । दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः