यत् पादशुश्रूषणमुख्य कर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः
यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम्
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः
कच्चित् नाभिहतोऽभावैः शब्दादिभिरमङ्गलैः । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम्
कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः
कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि
अपि स्वित्पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान्न यदक्षमम्
कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक्
ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम्
ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम्
( वसंततिलका ) बर्हप्रसून नवधातुविचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः । वत्सान् गृणन्ननुगगीत पवित्रकीर्तिः गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम्
( अनुष्टुप् ) अद्यानेन महाव्यालो यशोदानन्दसूनुना । हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः
श्रीराजोवाच । ब्रह्मन् परोद्भवे कृष्णे इयान्प्रेमा कथं भवेत् । योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम्
श्रीशुक उवाच । सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः । इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि
तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बि पुत्रवित्तगृहादिषु
देहात्मवादिनां पुंसां अपि राजन्यसत्तम । यथा देहः प्रियतमः तथा न ह्यनु ये च तम्
देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः । यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी
तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सकलं जगद् एतत् चराचरम्
कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च । भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम्
( मिश्र ) समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम्
( अनुष्टुप् ) एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया । यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम्
( मिश्र ) एतत्सुहृद्भिश्चरितं मुरारेः अघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरोऽखिलार्थान्
( अनुष्टुप् ) एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः
सूत उवाच । एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः । नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः । विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम
कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः
सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन । नृपमग्रजमित्याह बाष्पगद्गदया गिरा
अर्जुन उवाच । वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत