कालव्यालमुखाग्रास त्रासनिर्णाशहेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम्
एतस्माद् अपरं किंचिद् मनःशुद्ध्यै न विद्यते । जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत्
परीक्षिते कथां वक्तुं सभायां संस्थिते शुके । सुधाकुंभं गृहीत्वैव देवास्तत्र समागमन्
शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः । कथासुधां प्रयच्छस्व गृहीत्वैव सुधां इमाम्
एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् । प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम्
क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् । ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह
अभक्तान् तांश्च विज्ञाय न ददौ स कथामृतम् । श्रीमद्भागवती वार्ता सुराणां अपि दुर्लभा
राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः । सत्यलोक तुलां बद्ध्वा तोलयत् साधनान्यजः
लघून्यन्यानि जातानि गौरवेण इदं महत् । तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः
मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ । पठनात् श्रवणात् सद्यो वैकुण्ठफलदायकम्
सप्ताहेन श्रुतं चैतत् सर्वथा मुक्तिदायकम् । सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः
यद्यपि ब्रह्मसंबंधात् श्रुतमेतत् सुरर्षिणा । सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः
शौनक उवाच - लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च । विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह
सूत उवाच - अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् । शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च
एकदा हि विशालायां चत्वार ऋषयोऽमलाः । सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम्
कुमाराः ऊचुः - कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चागमनं तव
इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसङ्गस्य नोचितं वद कारणम्
नारद उवाच - अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति । पुष्करं च प्रयागं च काशीं गोदावरीं तथा
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् । एवमादिषु तीर्थेषु भ्रममाण इतस्ततः
नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् । कलिनाधर्ममित्रेण धरेयं बाधिताधुना
सत्यं नास्ति तपः शौचं दया दानं न विद्यते । उदरंभरिणो जीवा वराकाः कूटभाषिणः
मन्दाः सुमन्दमतयो मन्दभाग्या हि उपद्रुताः । पाखण्डनिरताः संतो विरक्ताः सपरिग्रहाः
तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः । कन्याविक्रयिणो लोभाद् दंपतीनां च कल्कनम्
आश्रमा यवनै रुद्धाः तीर्थानि सरितस्तथा । देवतायतनान्यत्र दुष्टैः नष्टानि भूरिशः
न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः । कलिदावानलेनाद्य साधनं भस्मतां गतम्
अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यः संभवन्ति कलौ इह
एवं पश्यन् कलेर्दोषान् पर्यटन् अवनीं अहम् । यामुनं तटमापन्नो यत्र लीला हरेरभूत्
तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः । एका तु तरुणी तत्र निषण्णा खिन्नमानसा
वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ । शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः
दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः । वीज्यमाना शतस्त्रीभिः बोध्यमाना मुहुर्मुहुः