श्रीमद्भागवतमाहात्म्यम् - प्रथमोऽध्यायः नारदसनकादिसमागमः, नारदकर्तृकं भक्तिज्ञानवैराग्य वृत्तान्तनिवेदनं च - (अनुष्टुप्) सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे । तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः
(वसंततिलका) यं प्रव्रजन्तमनुपेत्यमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि
(अनुष्टुप्) नैमिषे सूतं आसीनं अभिवाद्य महामतिम् । कथामृत रसास्वाद कुशलः शौनकोऽब्रवीत्
शौनक उवाच - अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभ । सूताख्याहि कथासारं मम कर्णरसायनम्
भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् । मायामोहनिरासश्च वैष्णवैः क्रियते कथम्
इह घोरे कलौ प्रायो जीवश्चासुरतां गतः । क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम्
श्रेयसां यद् भवेत् श्रेयः पावनानां च पावनम् । कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना
चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसंपदम् । प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम्
सूत उवाच - प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च । सर्वसिद्धान्त निष्पन्नं संसरभयनाशनम्
भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् । तदहं तेऽभिधास्यामि सावधानतया श्रृणु
कालव्यालमुखाग्रास त्रासनिर्णाशहेतवे । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम्
एतस्माद् अपरं किंचिद् मनःशुद्ध्यै न विद्यते । जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत्
परीक्षिते कथां वक्तुं सभायां संस्थिते शुके । सुधाकुंभं गृहीत्वैव देवास्तत्र समागमन्
शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः । कथासुधां प्रयच्छस्व गृहीत्वैव सुधां इमाम्
एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् । प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम्
क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् । ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह
अभक्तान् तांश्च विज्ञाय न ददौ स कथामृतम् । श्रीमद्भागवती वार्ता सुराणां अपि दुर्लभा
राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः । सत्यलोक तुलां बद्ध्वा तोलयत् साधनान्यजः
लघून्यन्यानि जातानि गौरवेण इदं महत् । तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः
मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ । पठनात् श्रवणात् सद्यो वैकुण्ठफलदायकम्
सप्ताहेन श्रुतं चैतत् सर्वथा मुक्तिदायकम् । सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः
यद्यपि ब्रह्मसंबंधात् श्रुतमेतत् सुरर्षिणा । सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः
शौनक उवाच - लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च । विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह
सूत उवाच - अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् । शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च
एकदा हि विशालायां चत्वार ऋषयोऽमलाः । सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम्
कुमाराः ऊचुः - कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चागमनं तव
इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसङ्गस्य नोचितं वद कारणम्
नारद उवाच - अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति । पुष्करं च प्रयागं च काशीं गोदावरीं तथा
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् । एवमादिषु तीर्थेषु भ्रममाण इतस्ततः
नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् । कलिनाधर्ममित्रेण धरेयं बाधिताधुना