नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् । आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते
मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् । वर्षतीन्द्रो दहत्यग्निः मृत्युश्चरति मद्भयात्
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः । क्षेमाय पादमूलं मे प्रविशन्ति अकुतोभयम्
एतावान् एव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम्
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः । पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये
खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः
नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम्
मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ । विषयौ याति पुरराड् रसज्ञविपणान्वितः
पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः
निर्ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः
अन्धावमीषां पौराणां निर्वाक् पेशस्कृतावुभौ । अक्षण्वतामधिपतिः ताभ्यां याति करोति च
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम्
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः । महिषी यद् यद् ईहेत तत्तद् एवान्ववर्तत
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् हसन्त्यां हसति जल्पन्त्यामनु जल्पति
क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायां अन्वास्ते क्वचिदासतीम्
क्वचित् श्रृणोति श्रृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित्
क्वचिच्च शोचतीं जायां अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः । नेच्छन् अनुकरोत्यज्ञः क्लैब्यात् क्रीडामृगो यथा
श्रीकृष्णस्य अलौकिकं प्रभावं दृष्ट्वा चकितान् गोपान प्रति नन्दस्य गर्गोक्तिकथनम् श्रीशुक उवाच - ( अनुष्टुप् ) एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः
बालकस्य यदेतानि कर्माणि अति अद्भुतानि वै । कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम्
यः सप्तहायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव
तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः
हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् । अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम्
एकहायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम्
क्वचिद् हैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले । गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत्
वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः । हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत्