मीनादीनान्त पञ्चानां काम्याथो वोभयात्मिका वराहस्प नृसिंहस्य वामनस्य चमुक्तये
चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं श्रृणु। उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना
मध्यमा मूर्त्तिपूजा स्याच्चक्राव्जे चतुरस्रके। प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः
कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत्। आप्ये गणं वायवे च धातारं नैर्ऋते यजेत्
विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः। विष्वकसेनं यजेदीशे आग्नेये क्षेत्रपालकम्
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम्। पीठं पद्मं चार्क वन्द्रवह्व्याख्यं मण्डलत्रयम्
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत्। व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात्
पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना। प्रणवेनार्च्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत्
विष्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत्। शालग्रामस्य प्रथमा पूजाथो निष्फलोच्यते
पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत्। शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्वंवद्यजेत्
पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैरासनं ददेत्। शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं श्रृणु
अष्टारमब्जं विलिखेत् गुर्वाद्यं पूर्ववद्यजेत्। अष्टर्णेनासनं दत्त्वा तेनैव च शिलां न्यसेत्
पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा
भगवानुवाच ओं रूपः केशवः पद्मशङ्खचक्रगदाधरः। नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम्
ततो गदी माधवोरिशङ्खपद्मी नमामि तम्। चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः
मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक्। शङ्खचक्राब्जगदिनं मधुसूदनमानमे
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि। शङ्खचक्रगदापद्मी वामनः पातु मां सदा
गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः। दामोदरः पद्मशङ्खगदाचक्री नमामि तम्
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत्। सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः
गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः। अनिरुद्धस्चक्रगदी शङ्खी पद्मी च पातु नः
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः। अधोक्षजः पद्मगदी शङखी चक्री च पातु वः
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम्। अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि। जनार्द्दनः पद्म चक्री शङ्खधारी गदाधरः
शङ्खीपद्मी च चक्री चहरिः कौमोदकीधरः। कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः
आदि मूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्पणोभवत्। सङ्कर्पणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः
केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्। द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत्
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात्
भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते। मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत्
नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत्। दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा