ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता। नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका
अङ्घ्निपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत्। सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतम्
नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः। मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयम्
तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका। लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चाम्बुजं करे
वामे विल्वं स्वियौ पार्श्वे शुभे चामरहस्तके। दीर्घघोणस्तुगरुडश्चक्राङ्गाद्यानथो वदे
भगवानुवाच शालग्रामादिमूर्त्तिश्च वक्षयेहं भुक्तिमुक्तिदाः। वासुदेवोऽसितो द्वारे शिलालग्नद्विचक्रकः
ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः। सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः
पीतोनिरुद्धः पद्माङ्को वर्त्तुलो द्वित्रिरेखवान्। कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान्
परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रश्च विन्दुमान्। स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः
नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चविन्दुकः। वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ मृतौ
इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः। कूर्मस्तथोन्नतः पृष्ठे वर्त्तलावर्त्तकोऽसितः
हयग्रीवोङ्कुशाकाररेखो नीलः सविन्दुकः। वैकुण्ठः एकचक्रोऽब्जी मणिभः पुच्छरेखकः
मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः। श्यामस्त्रिविक्रमो दक्षरेखस्तु वर्त्तुलः
वामनो वर्त्तुलश्चातिह्रस्वो नीलः सविन्दुकः। श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः
अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान्। स्थूलो दामोदरो मध्यचक्रो द्वाः सूक्ष्मविन्दुकः
सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात्। चित्रक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः
जनार्द्दनश्चतुस्चक्रो वासुदेवस्च पञ्चभिः। षट्रचक्रस्चौव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः। दशावतारो दशभिर्द्दशैकेनानिरुद्धकः
द्वाधशात्मा द्वादशभिरत ऊद्र्ध्वमनन्तकः
भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यैवदामि ते। त्रिविधास्याद्धरेः पूजा काम्याकाम्योभयात्मिका
मीनादीनान्त पञ्चानां काम्याथो वोभयात्मिका वराहस्प नृसिंहस्य वामनस्य चमुक्तये
चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं श्रृणु। उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना
मध्यमा मूर्त्तिपूजा स्याच्चक्राव्जे चतुरस्रके। प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः
कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत्। आप्ये गणं वायवे च धातारं नैर्ऋते यजेत्
विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः। विष्वकसेनं यजेदीशे आग्नेये क्षेत्रपालकम्
ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम्। पीठं पद्मं चार्क वन्द्रवह्व्याख्यं मण्डलत्रयम्
आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत्। व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात्
पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना। प्रणवेनार्च्चयेत् पञ्चान्मुद्रास्तिस्रः प्रदर्शयेत्
विष्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत्। शालग्रामस्य प्रथमा पूजाथो निष्फलोच्यते
पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत्। शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्वंवद्यजेत्