भगवानुवाच पिण्डिकालक्षणं वक्ष्ये दैर्घ्यैण प्रतिमासमा। उच्छायं प्रतिमार्द्धन्तु चतुः षष्टिपुटां च ताम्
त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूद्र्ध्वं यत्तु कोष्ठकम्। समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत्
ऊद्र्ध्वं पङ्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम्। अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम्
तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः। चतुर्द्धा भाजयित्वा तु ऊद्र्ध्वपङ्क्तिद्वयं बुधः
मेखला भागमात्रा स्यात् खातं तस्यार्द्धमानतः। भागं भागं परित्यज्य पार्श्वयोरुभयोः समम्
दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद् बुधः। त्रिभागेण च बागस्याग्रे स्यात्तोयविनिर्गमः
नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा। अष्टताला तु कर्त्तव्या देवी लक्ष्मीस्तथा स्त्रियः
भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका। गोलकेनाधिकं वक्त्रमूद्र्ध्वं तिर्य्यग्विवर्जितम्
आयते नयने कार्य्यं त्रिभागोनैर्यवैस्त्रिभिः। तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत्
कर्णपाशोऽधिकः कार्य्यः सृक्कणीसमसूत्रतः। नम्रं कलाविहीनन्तु कुर्य्यादंशद्वयं तथा
ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता। नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका
अङ्घ्निपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत्। सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतम्
नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः। मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयम्
तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका। लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चाम्बुजं करे
वामे विल्वं स्वियौ पार्श्वे शुभे चामरहस्तके। दीर्घघोणस्तुगरुडश्चक्राङ्गाद्यानथो वदे
भगवानुवाच शालग्रामादिमूर्त्तिश्च वक्षयेहं भुक्तिमुक्तिदाः। वासुदेवोऽसितो द्वारे शिलालग्नद्विचक्रकः
ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः। सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः
पीतोनिरुद्धः पद्माङ्को वर्त्तुलो द्वित्रिरेखवान्। कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान्
परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रश्च विन्दुमान्। स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः
नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चविन्दुकः। वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ मृतौ
इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः। कूर्मस्तथोन्नतः पृष्ठे वर्त्तलावर्त्तकोऽसितः
हयग्रीवोङ्कुशाकाररेखो नीलः सविन्दुकः। वैकुण्ठः एकचक्रोऽब्जी मणिभः पुच्छरेखकः
मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः। श्यामस्त्रिविक्रमो दक्षरेखस्तु वर्त्तुलः
वामनो वर्त्तुलश्चातिह्रस्वो नीलः सविन्दुकः। श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः
अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान्। स्थूलो दामोदरो मध्यचक्रो द्वाः सूक्ष्मविन्दुकः
सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात्। चित्रक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः
जनार्द्दनश्चतुस्चक्रो वासुदेवस्च पञ्चभिः। षट्रचक्रस्चौव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः
पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः। दशावतारो दशभिर्द्दशैकेनानिरुद्धकः
द्वाधशात्मा द्वादशभिरत ऊद्र्ध्वमनन्तकः
भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यैवदामि ते। त्रिविधास्याद्धरेः पूजा काम्याकाम्योभयात्मिका