हृदये च तथा कार्य्यं कण्ठे सूत्रद्वयं तथा। ललाटे चापरं कार्यं मस्तके च तथापरम्
मुकुटोपरि कर्त्तव्यं सूत्रमेकं विचक्षणैः। सूत्राण्यूद्र्ध्वं प्रदेयानि सप्तैव कमलोद्भव
कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत्। मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत्
ललाटं नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलम्। ग्रीवाकर्णौ तु कर्त्तव्यौ आयामाच्चतुरङ्गुलौ
द्व्यङ्गुले हनुके कार्य्ये विस्ताराच्चिवुकन्तथा। अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीत्तिंतम्
परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ। चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः
द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धंपञ्च मे। भ्रूसभेन तु सूत्रेण कर्णक्षोत्रं प्रकीत्तितम्
विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम्। चिवुकेन समं विद्धमविद्धं वा षडङ्गुलम्
गन्धपात्रं तथावर्त्तं शष्कुलीं कल्वयेत्तथा। द्व्यङ्गुलेगधरः कार्यस्तस्यार्द्धेनोत्तराधरः
अर्द्धाङ्गुलं तथा नेत्रं वक्त्रन्तु चतुरङ्गुलम्। आयामेन तु वैपुल्यात् सार्द्धमङ्गुलमुच्यते
अचव्यात्तमेवं स्याद्वक्त्रं व्यात्तं द्व्यङ्गुलमिष्यते। नासावंशसमुच्छायं मूले त्वेकाङ्गुलं मतम्
उच्छाया द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः। अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः
द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः। तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका
त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता। तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते
भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गुलम् । षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम्
मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत्। पञ्च नेत्रा त्वधोग्रीवा विस्तारद्वेष्टनं पुनः
त्रिगुणं तु भवेदूद्धर्वं विस्तृताष्टाङ्गुलं पुनः। ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत्
स्कन्दावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ। सप्तनेत्रौ स्मृतौ बाहू प्रवाहू षोडशाङ्गुलौ
त्रिकलौ विस्तृतौ बाहू प्रवाहू चापि तत्समौ। बाहुदण्डोद्ध्र्वतो ज्ञेयः परिणाहः कला नव
नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते। अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते
विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम्। दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता
तर्ज्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना। कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलम्मितौ
द्विपर्वोङगुष्ठकः कार्यः शेषांगुल्यस्त्रिपर्विकाः। सर्वासां पर्वणोर्द्धेन नखमानं विधीयते
वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः। अङ्गुलैकं भवेन्नाभी वेधेन च प्रमाणतः
ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः। नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः
अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः। चिवुकौ यवमानौ तु मण्डलं द्विपदं भवेत्
चतुः षष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम्। चतुर्मुखञ्च तदधोवेष्टनं परिकीर्त्तितम्
परिणाहस्तथा कट्या चतुः पञ्चाशदङ्गुलैः। विस्तारश्चोरुमूले तु प्रोच्यते द्वादशाङ्गुलः
तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात्। विस्तृताष्टाङ्गुलं जानुत्रिगुणा परिणाहतः
जङ्घा मध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः। त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात्