उत्तरे दशमत्स्यादीनाग्नेय्यां चण्डिकां तथा। नैर्ॠत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीम्
पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा। त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिम्
पूर्वांदौ केशवादीन् वा अन्यधामस्वयं हरिम् । मृण्मयी दारुघटिता लोहजा रत्नजा तथा
शैलजा गन्धजा चैव कौसुमी सप्तदा स्मृता। कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः। अथ शैलमयी वक्ष्ये शिला यत्र च गृह्यते
पर्वतानामभावे च गृह्णीयाद् भूगतां शिलाम्। पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्
न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला। वर्णाद्यापादनं तत्र जुहुयात् सिंहविद्यया
शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः। कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका
तन्मन्दलक्षणा स्त्री स्याद्रूपाभावान्नपुंसका। दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत्
प्रतिमार्थं वनं गत्वा वनयागं समाचरेत्। तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत्
बलिं दत्त्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत्। हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलाम्
रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत् । हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः
अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः। सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत्
विष्णुबिम्बार्थमस्माकं यात्रैषा केशवाज्ञया। विष्ण्वर्थं यद्भवेत् कार्य्यं युष्माकमपि तद्भवेत्
अनेन बलिदानेन प्रीता भवत सर्वथा। क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात्
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखम्। शिल्पिभिश्च चरुं प्रास्य स्वप्नमन्त्रं जपेन्निशि
ओं नमः सकललोकाय विष्णवे प्रभविष्णवे। विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः
आचक्ष्व देवदेवेश प्रसुप्तोस्मि तवान्तिकम्। स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे
ओं ओं ह्रुं फट् विष्णवे स्वाहा । शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः
कुद्दालटङ्कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत्। आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्म्मकम्
शस्त्रं विष्णवात्मकं दद्यात्मुखपृष्ठादि दर्शयेत्। जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकाम्
शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत्। रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि। पूजयित्वाथ घटयेत् प्रतिमां स तु कर्म्मकृत्
भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते। प्रासादस्योत्तरे पूर्वमुखीं वा चोत्ताराननाम्
संस्थाप्य पूज्य च बलिं दत्त्वाथो मध्यसूत्रकम्। शिल्पी तु नवधा विभज्य नवमेंऽशके
सूर्पभक्तैः शिलायां तु भागं स्वाङ्गुलमुच्यते। द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते
भागमेकं त्रिदा भक्त्वा पार्ष्णिभागं प्राकल्पयेत्। भागमेकं तथा जानौ ग्रीवायां भागमेव च
मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम्। तालेनैकेन कण्ठन्तु तालेन हृदयं तथा
नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा। तालद्वयेन जङ्घा स्यात् सूत्राणि श्रृणु साम्प्रतम्
कार्य्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरम्। जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम्
मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम्। मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा