प्रासादात् पादहीनस्तु गोपुरस्योच्छयोभवेत्। पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका
गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च। कुर्य्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि
पूर्वं वराहं दक्षे च नृसिंहं श्रीधरं जले। उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम्
नैर्ऋत्यां रामकं वायौ वामनं वासुदेवकम्। ईशे प्रासादरचना देया वस्वर्ककादिभिः
भगवानुवाच प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् श्रृणुष्व मे। पञ्चायतनमध्ये तु वासुदेवं विवेशयेन्
वामनं नृहरिञ्चाश्वशीर्षं तद्वच्च शूकरम्। आग्नेये नैर्ऋते चैव वायव्ये चेशगोचरे
अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत्। नैर्ऋत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके
अथवा रुद्ररूपन्तु अथवा नवधामसु। वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान्
इन्द्रादीन् लोकपालांश्च अथवा नवधामसु। पञ्चायतनकं कुर्य्यात् मध्ये तु पुरुषोत्तमम्
लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत्। स्कन्दं गणेशमीशानं सुर्य्यादीन् पश्चिमे ग्रहान्
उत्तरे दशमत्स्यादीनाग्नेय्यां चण्डिकां तथा। नैर्ॠत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीम्
पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा। त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिम्
पूर्वांदौ केशवादीन् वा अन्यधामस्वयं हरिम् । मृण्मयी दारुघटिता लोहजा रत्नजा तथा
शैलजा गन्धजा चैव कौसुमी सप्तदा स्मृता। कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा
तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः। अथ शैलमयी वक्ष्ये शिला यत्र च गृह्यते
पर्वतानामभावे च गृह्णीयाद् भूगतां शिलाम्। पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्
न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला। वर्णाद्यापादनं तत्र जुहुयात् सिंहविद्यया
शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः। कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका
तन्मन्दलक्षणा स्त्री स्याद्रूपाभावान्नपुंसका। दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत्
प्रतिमार्थं वनं गत्वा वनयागं समाचरेत्। तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत्
बलिं दत्त्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत्। हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलाम्
रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत् । हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः
अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः। सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत्
विष्णुबिम्बार्थमस्माकं यात्रैषा केशवाज्ञया। विष्ण्वर्थं यद्भवेत् कार्य्यं युष्माकमपि तद्भवेत्
अनेन बलिदानेन प्रीता भवत सर्वथा। क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात्
एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखम्। शिल्पिभिश्च चरुं प्रास्य स्वप्नमन्त्रं जपेन्निशि
ओं नमः सकललोकाय विष्णवे प्रभविष्णवे। विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः
आचक्ष्व देवदेवेश प्रसुप्तोस्मि तवान्तिकम्। स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे
ओं ओं ह्रुं फट् विष्णवे स्वाहा । शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः
कुद्दालटङ्कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत्। आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्म्मकम्