मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव। एवमुत्क्वा ततः खातं गोमूत्रेण तु सेचयेत्
कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि। गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनम्
गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत्। पीठबन्धमतः कुर्य्यान्मितप्रासादमानत
पीठोत्तमं चोच्छ्रयेण प्रासादस्यार्द्धविस्तरात्। पादहीनं मध्यमं स्यात् पनिष्ठं चोत्तमार्द्धतः
पीठबन्धोपरिष्टातु पुनर्यजत्। पादप्परतिष्ठकारी तु निष्पापो दिवि मोदते
देवागारं करोमीति मनसा यस्तु चिन्तयेत्। तस्य कायगतं पापं तदह्रा हि प्रणश्यति
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु। अष्टेष्टकसमायुक्तं यः कुर्य्याहेवतालयम्
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित्। अनेनैवानुमेयं हि फलं प्रासादविस्तरात्
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत्। विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत्
इयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारण श्रृण। चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम्। द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत्
जङ्घोच्छायन्तु कर्त्तव्यं चतुर्भागेण चायतम् । जङ्घायां द्विगुणोच्छायं मञ्चर्य्याः कल्पयेद् बुधः
तुर्य्यभागेन मञ्चर्य्याः कार्य्यः सम्यक् प्रदक्षिणः । तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समम्
शिशरेण समं कार्य्यमग्रे जगति विस्तरम्। द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु। दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम्
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम्। एकाशीतिपदैर्व्वास्तुं पश्चात् मण्डपमारभ्त्
शुकान् प्राग्द्वारविन्यासे पादान्तः स्थान् यजेत् सुरान्। तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम्। मानेन प्रतिमाया वा प्रासादमपरं श्रृणु
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा। गर्भस्तु पिण्डिकार्द्वेन गर्भमानास्तु भित्तयः
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत्। भित्त्युच्छायात्तु द्विगुणं शिखरं कल्पयेद् बुधः
शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत्। शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम्
अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः। परिधेर्गुणभागेन रथकस्तित्र कल्पयेत्
तत्तृतीयेण वा कुर्य्याद्रथकानान्तु निर्गमम्। वामत्रयं स्थापनीयं रथकत्रितये सदा
शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत्। शुकनाशोद्र्ध्वतः सूत्रं तिर्य्यग्भूतं निपातयेत्
शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत्। शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत्
अपरे च तता पार्श्वे तद्वत् सूत्रं निधापयेत्। तदूद्र्ध्वन्तु भवेद्वेदी सकण्ठा मनसारकम्
स्कन्धभग्नं न कर्त्तव्यं विकरालं तथैव च। उद्र्ध्वं च वेदिकामानात् कलशं परिकल्पयेत्
विस्ताराद् द्विगुणं द्वारं कर्त्तव्यं तु सुशोभनम्। उदुम्बरौ तदूद्र्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः
द्वारस्य तु चतुथांशे कार्य्यौ चण्डप्रचण्डकौ। विष्वक्सेनवत्सदण्डौ शिखोद्र्ध्वेडुम्बरे श्रियम्
दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां सुरूपिकाम्। प्रासादस्य चतुर्थांशैः प्राकारस्योच्छयो भवेत्