मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः। गर्भाधानं ततः कुर्य्यान्मध्यस्थाने समाहितः
कुम्भोपरिष्टाद्देवेशं पद्मिनीं न्यस्य देवताम्। मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च
लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने। द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये
पद्माकारे ताम्रमये भाजने पृथिवीं यजेत्। एकान्ते सर्वभूतेशे पर्वतासनमण्डिते
समुद्रपरिवारे त्वं देवि गर्भं समाश्रय। नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह
जये भार्गवदायादे प्रजानां विजयावहे। पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम्
भद्रे काश्यपदायादे कुरु भद्रां मतिं मम। सर्वबीजसमायुक्ते सर्वरत्नौषधीवृते
जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह। प्रजापतिसुते देवि चतुरस्रे महीयसि
सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यताम्। पूजिते परमाश्चर्य्ये गन्धमाल्यैरलङ्कृते
भवभूतिकरी देवि गृहे भार्गवि रम्यताम्। देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे
मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव। एवमुत्क्वा ततः खातं गोमूत्रेण तु सेचयेत्
कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि। गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनम्
गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत्। पीठबन्धमतः कुर्य्यान्मितप्रासादमानत
पीठोत्तमं चोच्छ्रयेण प्रासादस्यार्द्धविस्तरात्। पादहीनं मध्यमं स्यात् पनिष्ठं चोत्तमार्द्धतः
पीठबन्धोपरिष्टातु पुनर्यजत्। पादप्परतिष्ठकारी तु निष्पापो दिवि मोदते
देवागारं करोमीति मनसा यस्तु चिन्तयेत्। तस्य कायगतं पापं तदह्रा हि प्रणश्यति
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु। अष्टेष्टकसमायुक्तं यः कुर्य्याहेवतालयम्
न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित्। अनेनैवानुमेयं हि फलं प्रासादविस्तरात्
ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत्। विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत्
इयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारण श्रृण। चतुरस्त्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम्। द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत्
जङ्घोच्छायन्तु कर्त्तव्यं चतुर्भागेण चायतम् । जङ्घायां द्विगुणोच्छायं मञ्चर्य्याः कल्पयेद् बुधः
तुर्य्यभागेन मञ्चर्य्याः कार्य्यः सम्यक् प्रदक्षिणः । तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समम्
शिशरेण समं कार्य्यमग्रे जगति विस्तरम्। द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः
विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु। दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम्
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम्। एकाशीतिपदैर्व्वास्तुं पश्चात् मण्डपमारभ्त्
शुकान् प्राग्द्वारविन्यासे पादान्तः स्थान् यजेत् सुरान्। तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्
सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम्। मानेन प्रतिमाया वा प्रासादमपरं श्रृणु
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा। गर्भस्तु पिण्डिकार्द्वेन गर्भमानास्तु भित्तयः
भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत्। भित्त्युच्छायात्तु द्विगुणं शिखरं कल्पयेद् बुधः