रक्तपत्रैर्विदारीञ्च कन्दर्पञ्च पलोदनैः। पूतन ांपलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकम्
पित्तासृगस्थिभिः पापं पिलिपिञ्चं स्रजासृजा। ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत्
रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च। पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः
अहुत्वैतानसन्तप्य प्रासादादीन्न कारयेत्। ब्रह्मस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्च्चयेत्
महीश्वरं वास्तुमयं वर्द्धन्या सहितं घटम्। ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींस्छ दिगीश्वरान्
दद्यात् पूर्णाहुति पश्चात् स्वस्ति वाच्य प्रणम्य च। प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणम्
सूत्रमार्गेण हे ब्रह्मांस्तोयधाराञ्च भ्रामयेत्। पूर्व्ववक्तेन मार्गेण सप्त वीजानि वापयेत्
प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत्। ततो गर्त्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः
चतुरङ्गलकं चाधश्चोपलिप्यार्च्चयेत्ततः। ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः
कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत्। दक्षिणावर्त्तकं श्रेष्ठं बीजैर्मृद्भिश्च पूरयेत्
अर्घ्यदानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ। कालज्ञाय स्थपतये वैष्णवादिभ्य अर्च्चयेत्
ततस्तु खानयेद्यत्नाज्जलान्तं यावदेव तु। पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत्
अस्थिशल्ये भिद्यते वै भित्तिर्वै गृहिणोऽसुखम्। यन्नामशब्दं श्रृणुयात्तत्र शल्यं तदुद्भवम्
भगवानुवाच पादप्रतिष्ठां वक्ष्यामि शिलाविन्यासलक्षणम्। अग्रतो मण्डपः कार्य्यः कुण्डानान्तु चतुष्टयम्
कुम्भन्यासेष्टकान्यासौ द्वारस्तम्भोच्छ्रयं शुभम्। पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे
इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः। सुविस्तारत्रिभागेन वैपुल्येन समन्विताः
करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये । नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान्
अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च। गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः
हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः। आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्यथ
तरत समन्दीरिति च पावमानीभिरेव च। उदुत्तमं वरुणमिति कयानश्च तथैव च
वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि। श्रीसूक्तेन च तथा शिलाः संस्थाप्य संघटाः
शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्च्चयेत्। जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः
आधारावाज्यभागौ तु प्रणवेनैव कारयेत्। अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः क्रमात्
लोकेशानामग्नये वै सोमायावग्रहेषु च । पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः
प्रायश्चित्तं ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान्। वेदाद्यैर्द्वादशान्तेन कुम्भेषु च पृथक् पृथक्
प्राङमुखस्तु गुरुः कुर्य्यादष्टदिक्षु विलिप्य च। मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात्
पद्मं चैव महापद्मं मकरं कच्छपं तथा। कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीम्
कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाः क्रमात्। ईशानान्ताश्च पूर्व्वादाविष्टकां प्रथमं न्यसेत्
शक्तयो विमलाद्यास्तु इष्टकानान्तुक देवताः। न्यसनीया यथायोगं मध्ये न्यस्या त्वनुग्रहा
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते। इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम्