कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः। ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम्
अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च। दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च
नैर्ऋते मन्दिरं कुर्यात् वरूणादेश्चवारुणे। वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च
चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः। पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ
समं वाप्यधिकं वापि न कर्त्तव्यं विजानता। उभयोर्द्विगुणां सीमांत्वक्त्वा चोच्छयसम्मिताम्
प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः। भूमौ तु शोधितायां तु कुर्याद्भूमिपरिग्रहम्
प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत्। माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः
अष्टाक्षरेण सक्तूँश्च पातयित्वाष्टदिक्षु च। राक्षसाश्च पिशाचाश्च यस्मिंस्तिष्ठन्ति भूतले
सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः। हलेन वाहयित्वा गां गोभिश्चैवावदारयेत्
परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः। रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते
तैरष्टभिस्तु बालाग्रं लिख्या तैरष्टभिर्मता। ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः
यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः। चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः
भगवानुवाच पूर्व्वमासीत् महद्भूतं सर्व्वभूतभयङ्करम्। तद्देवैर्न्निहितं भूमौ स वास्तुपुरुषः स्मृतः
चतुः षष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितम्। घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं पदगं ततः
उत्पलाद्भिर्जयन्तञ्च द्विपदस्थं पताकया। महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः पदे रविम्
वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः। व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम्
स्रुचा चार्द्धपदे वह्नि पूषणं लाजयैकतः। स्वर्णेन वितथं द्विष्ठं मंथनेन गृहक्षतम्
मांसौदनेन धर्म्मेशमेकैकस्मिन् स्थितं द्वयम्। गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया
एकस्थमर्धसंस्थञ्च मृगं नीलपटैस्तथा। पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितम्
दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु। पुष्पदन्तं कुशस्तम्बैः पद्मैर्व्वरुणमेकतः
असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा। यवैः पापं पदार्द्धस्थं रोगमध्ये च मण्डकैः
नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्हि संस्थितम्। मुद्गोदनेन भल्लाटं पदे सोमं पदे तथा
मधुना पायसेनाथ शालूकेन ऋषिं द्वये। पदे दितिं लोपिकाभिरर्द्धे दितिमथापरम्
पूरिकाभिस्ततञ्चापमीशाधः पयसा पदे। ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितम्
लड्ङुकैश्च मरीचिन्तु पूर्वकोष्ठचतष्टये । सवित्रे रक्तपुष्पाणि ब्रह्माधः कोणकोष्ठके
तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्। विवस्वतेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्निषु
रक्षोधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम्। इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके
चतुष्पदेषु दातव्यमिन्द्राय गुडपायसम्। वाय्वधः कोणदेशे तु रुद्राय पक्कमांसकम्
तदधः कोणकोष्ठे तु यक्षायार्द्धं फलन्तथा। महीधराय मांसान्नं माषञ्च चतुरङ्घ्रिषु
मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः। चरकीं माषसर्प्पिर्भ्यां स्कन्दं कृशरयासृजा