निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते। यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम्
शिवब्रह्मार्क्कविध्नेशचण्डीलक्षग्यादिकात्मनाम्। देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम्
प्रतिमास्थापने यागे फलस्यान्तो न विद्यते। मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे
इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम्। सप्तजमन्मकृतं पापं प्रापम्भादेव नश्यति
देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः
यमो यमभटानाह देवमन्दिरकारिणः। यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः
देवालयाद्यकर्त्तार आनेयस्ते तु गोचरे विचरध्वं यथान्यायन्नियोगो मम पाल्यताम्
नाझाभङ्गं करिष्यन्ति भवतां जन्तवः क्कचित्। केवलं ये जगत्तातमनन्तं समुपाश्रिताः
भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः। येच भागवता लोके तच्चित्तास्तत्परायमाः
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः। यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते
सङ्गीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः। नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम्
नावलोक्या भचवद्भिस्ते तद्गता यान्ति तद्गतिम्। ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः
अर्च्ययन्ति न ते ग्राह्या नराः कृष्णालये गताः । उपलेपनकर्त्तारः सम्मार्जनपरश्च ये
कृष्णालये परित्याज्यास्तेषां पुत्रास्तथा कुलम्। येन चायतनं विष्णोः कारितं तत् कुलोद्भवम्
पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा। यस्तु देवालयं विष्णोर्द्दारुशौलमयं तथा
कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते। अहन्यहनि यज्ञेन यजतो यन्महाफलम्
प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनम्। सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्
कारयन् भगवद्धाम् नयत्यच्युतलोकताम्। सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्
तारयत्यक्षयांल्लोकानक्षयान् प्रातिपद्यते। इष्टकाचयविन्यासो यावनत्यब्दानि तिष्ठति
तावद्वर्षसहस्नाणि तत्कर्त्तु र्द्दि वि संस्थितिः। प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ
अग्निरुवाच यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः। हयशीर्षः प्रतिष्ठार्थं देवानां ब्रह्मणेऽब्रवीत्
हयग्रीव उवाच विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् श्रृणुष्व मे। प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया
व्यस्तानि मुनिभिर्लेके पञ्चविंशतिसङ्ख्यया। हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम्
वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम्। नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं
सत्योक्तं शौनकं तन्त्रं वासिष्ठंज्ञानसागरम्। स्वायम्भुवं कापिलञ्चातार्क्षं नारायणीयकम्
आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम्। बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः
प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः। न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः
कामरूपकलिङ्गोत्थः काञ्चीकारमीरकोशलः । आकाशवायुतेजोम्बुभूरेताः पञ्च रात्रयः
अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम्। ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः
सर्व्लक्षणहीनोपि स गुरुस्तन्त्रपारगः। नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः