कृष्णस्य वासुदेवस्य यः कारयति केतनम्। जातःस एव सुकृती कुलन्तेनैव पावितम्
विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक्। किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः
दुः खार्ज्जितैर्यः कृष्णस्य न कारयति केतनम्। नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम्
नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः। यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः
मूढस्तत्राऽनुबध्नाति जीवितेथ चले धने। यदा वित्तं न दानाय नोपभोगाय देहिनाम्
नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येथ को गुणः। तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ
दद्यात् सम्यग् द्विजाग्रथेभ्यः कीर्त्तनानि च कारयेत्। दानेभ्यस्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः
अतस्तत्कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकम्। विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः
निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम्। भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्
आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवम्। तस्य देवादिदेवस्य सर्वगस्य महात्मनः
निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते। यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम्
शिवब्रह्मार्क्कविध्नेशचण्डीलक्षग्यादिकात्मनाम्। देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम्
प्रतिमास्थापने यागे फलस्यान्तो न विद्यते। मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे
इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम्। सप्तजमन्मकृतं पापं प्रापम्भादेव नश्यति
देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः
यमो यमभटानाह देवमन्दिरकारिणः। यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः
देवालयाद्यकर्त्तार आनेयस्ते तु गोचरे विचरध्वं यथान्यायन्नियोगो मम पाल्यताम्
नाझाभङ्गं करिष्यन्ति भवतां जन्तवः क्कचित्। केवलं ये जगत्तातमनन्तं समुपाश्रिताः
भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः। येच भागवता लोके तच्चित्तास्तत्परायमाः
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः। यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते
सङ्गीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः। नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम्
नावलोक्या भचवद्भिस्ते तद्गता यान्ति तद्गतिम्। ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः
अर्च्ययन्ति न ते ग्राह्या नराः कृष्णालये गताः । उपलेपनकर्त्तारः सम्मार्जनपरश्च ये
कृष्णालये परित्याज्यास्तेषां पुत्रास्तथा कुलम्। येन चायतनं विष्णोः कारितं तत् कुलोद्भवम्
पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा। यस्तु देवालयं विष्णोर्द्दारुशौलमयं तथा
कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते। अहन्यहनि यज्ञेन यजतो यन्महाफलम्
प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनम्। सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्
कारयन् भगवद्धाम् नयत्यच्युतलोकताम्। सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्
तारयत्यक्षयांल्लोकानक्षयान् प्रातिपद्यते। इष्टकाचयविन्यासो यावनत्यब्दानि तिष्ठति
तावद्वर्षसहस्नाणि तत्कर्त्तु र्द्दि वि संस्थितिः। प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ