स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात्। श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत्
कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः। समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम्
कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम्। लक्षेणाथ सहस्नेण शतेनार्द्धेन वा हरेः
कारयन् भबनं याति यत्रास्ते गरुडध्वजः। बाल्ये तु क्रीडमाना ये पांशुभिर्भवनं हरेः
वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः। तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाष्टमे
कर्त्तुरायतन विष्णोर्यथोक्तात् त्रिगुणं फलम्। बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम्
ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरम्। पतितं पतभानन्तु तथार्द्धपतितं नरः
समुद्धत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलम्। पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता
विष्णोरायतनस्येह स नरो विष्णुलोकभाक्। इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः
सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते। स एव पुण्यवान् पूज्य इह लोके परत्र च
कृष्णस्य वासुदेवस्य यः कारयति केतनम्। जातःस एव सुकृती कुलन्तेनैव पावितम्
विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक्। किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः
दुः खार्ज्जितैर्यः कृष्णस्य न कारयति केतनम्। नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम्
नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः। यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः
मूढस्तत्राऽनुबध्नाति जीवितेथ चले धने। यदा वित्तं न दानाय नोपभोगाय देहिनाम्
नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येथ को गुणः। तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ
दद्यात् सम्यग् द्विजाग्रथेभ्यः कीर्त्तनानि च कारयेत्। दानेभ्यस्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः
अतस्तत्कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकम्। विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः
निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम्। भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्
आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवम्। तस्य देवादिदेवस्य सर्वगस्य महात्मनः
निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते। यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम्
शिवब्रह्मार्क्कविध्नेशचण्डीलक्षग्यादिकात्मनाम्। देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम्
प्रतिमास्थापने यागे फलस्यान्तो न विद्यते। मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे
इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम्। सप्तजमन्मकृतं पापं प्रापम्भादेव नश्यति
देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः
यमो यमभटानाह देवमन्दिरकारिणः। यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः
देवालयाद्यकर्त्तार आनेयस्ते तु गोचरे विचरध्वं यथान्यायन्नियोगो मम पाल्यताम्
नाझाभङ्गं करिष्यन्ति भवतां जन्तवः क्कचित्। केवलं ये जगत्तातमनन्तं समुपाश्रिताः
भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः। येच भागवता लोके तच्चित्तास्तत्परायमाः
पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः। यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते