शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्। मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः
इयं संवत्सरी पूजा तवास्तु वेदवित्पते। सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम
ब्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः। सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्। शिवदेव नमस्तुभ्यं गृह्णोष्वेदं पवित्रकम्
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। वाणेश्वर नस्तुभ्यं गृह्लीष्वेदं पवित्रकम्
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्। शक्तिदेवि नमस्तुभ्यं गृह्णीषवेदं पवित्रकम्
पवित्रीकरणार्थय वर्षपूजाफलप्रदम्। नारायणमयं सूत्रमनिरुद्धणमयं वरम्
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते। कामदेवमयं सूत्रं सङ्कर्षणमयं वरम्
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते। वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदम्
संसारसागरोत्तारकारणं प्रददामि ते। विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनम्
अतीतानागतकुलसमुद्दारं ददामि ते। कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे
अग्निरुवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम्। चिकीर्षोर्द्देवधामादि सहस्नजनिपापनुत्
मनसा सद्मकर्त़णां शतजन्माघनाशनम्। येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहम्
तेपि पापैर्व्विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम्। समतीतं भविष्यञ्च कुलानामयुतं नरः
विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्। वसन्ति पितरो दृष्ट्वा विष्णुलोके ह्यलङ्कृताः
विमुक्ता नारकैर्दुः खैः कर्त्तुः कृष्णस्य मन्दिरम्। ब्रह्महत्यादिपापौघघातकं देवतालयम्
फलं यन्नाप्यते यज्ञैर्द्धाम कृत्वा तदाप्यते। देवागारे कृते सर्व्वतीर्थस्नानफलं लभेत्
देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकम्। शाठ्येन पांशुना वापि कृतं धाम च नाकदम्
एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक्। पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः
षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात्। कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम्
स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात्। श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत्
कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः। समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम्
कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम्। लक्षेणाथ सहस्नेण शतेनार्द्धेन वा हरेः
कारयन् भबनं याति यत्रास्ते गरुडध्वजः। बाल्ये तु क्रीडमाना ये पांशुभिर्भवनं हरेः
वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः। तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाष्टमे
कर्त्तुरायतन विष्णोर्यथोक्तात् त्रिगुणं फलम्। बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम्
ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरम्। पतितं पतभानन्तु तथार्द्धपतितं नरः
समुद्धत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलम्। पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता
विष्णोरायतनस्येह स नरो विष्णुलोकभाक्। इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः
सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते। स एव पुण्यवान् पूज्य इह लोके परत्र च