कन्ये द्वे उपयेमाते जनकेन सुपूजितः। रामोऽगात्सवशिष्ठाद्यैर्जामदगन्यं विजित्य च
नारद उवाच रामो वशिष्ठं मातॄश्च नत्वाऽत्रिञ्च प्रणम्य सः। अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम्
अगस्त्य भ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः। धनुः खङ्गञ्च सम्प्राप्य दण्डकारण्यमागतः
जनस्थाने पञ्चवट्यां स्थितो गोदावरीं तटे। तत्र सूर्पणखायाता भक्षितुं तान् भयङ्करी
रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत्। कस्त्वं कस्मात्समायातो भर्त्ता मे भव चार्थितः
एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता । तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत्
रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत्। मरीष्यामि विनासाऽहं खर जीवामि वै तदा
रामस्य भार्य्या सीताऽसौ तस्यासील्लक्ष्मणोऽनुजः। तेषां यद्रुधिरं सोष्णं पाययिष्यसि मां यदि
खरस्तथेति तामुक्त्वा यतुर्दृशसहस्त्रकैः। रक्षसां दूषणेनागाद्योद्धु त्रिशिरसा सह
रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान्। हस्त्यश्वरथपादातं बलं निन्ये यमक्षयम्
त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चौव दूषणम्। ययौ सूर्पणखा लङ्कां रावणाग्रेपतद् भुवि
अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः। खरादिहन्तू रामस्य सीतां भार्यां हरस्व च
रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा। तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज
स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः। सीताग्रे तां हरिष्यामि अन्यथा मरणं तव
मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः। रावणादपि मर्त्तव्यं मर्त्तव्यं राघवादपि
अवश्यं यदि मर्त्तव्यं वरं रामो न रावणः। इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः
सीतया प्रेरितो रामः शरेणाथावधीच्च तम्। म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च
सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः। रावणोऽप्यहरत् सीतां हत्वा गृध्रं जटायुषम्
जटायुषा स भिन्नाङ्गः अङ्केनादाय जानकीम्। गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत्
भव भार्य्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम् । रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत्
मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः । तथा सीता हृता नूनं नापश्यत् स गतोऽथ ताम्
शुशोच विललापार्त्तो मां त्यक्त्वा क्क गतासि वै। लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम्
दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम्। मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः
नारद उवाच रामः पस्पासरो गत्वा शोचन् स शर्वरीं ततः। हनूमता स सूग्नीवं मित्रञ्चकार ह
सप्त तालन् विनिर्भिद्य शरेणैकेन पश्यतः। पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम्
तद्रिपुं बालिनं हत्वा भ्रातरं वैरसारिणम्। किष्किन्धां कपिरज्यञ्च रुमान्तारां समर्पयत्
ऋष्यमूकेहरीशायकिष्किन्धेशोऽब्रवीत्सच । सीतां त्वं प्राश्यसेयद्वत् तथा राम करोमिते
तछ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकारसः। किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम्
तदाऽब्रवीत्तं रामोक्तं लक्षमणो व्रज राघवम्। न स सङ्कुचितः पन्था येन बाली हतो गतः
समये तिष्ठ सुग्रीव मा बालिपथमन्वगः। सुग्रीव आह संसक्तो गतं कालं न बुद्धवान्