इदं पञ्चदशसाहस्रं शतकोटिप्रविस्तरं । देवलोके दैवतैश्च पुरणं पठ्यते सदा ।। ३८३.
लोकानां हितकामेन संक्षिप्योद्गीतमग्निना । सर्वं ब्रह्मेति जानीध्वं मुनयः शोनकादयः ।। ३८३.
श्रृणुयाच्छ्रावयेद्वापि यः पठेत्पाठयेदपि । लिखेल्लेखापयेद्वापि पूजयेत्कीर्त्तयेदपि ।। ३८३.
पुराणपाठकञ्चैव पूजयेत् प्रयतो नृपः । गोभूहिरण्यदानाद्यैर्वस्त्रालङ्कारतर्पणैः ।। ३८३.
तं संपूज्य लभेच्चैव पुराणश्रवणात् फलं । पुराणान्ते च वै कुर्य्यादवश्यं द्विजभोजनं ।। ३८३.
निर्म्मलः प्राप्तसर्व्वार्थः सकुलः स्वर्गमाप्नुयात् । शरयन्त्रं पुस्तकाय सूत्रं वै पत्रसञ्चयं ।। ३८३.
पट्टिकाबन्धवस्त्रादि दद्याद् यः स्वर्गमाप्नुयात् । यो दद्याद्ब्रह्म्लोकी स्यात् पुस्तकं यस्य वै गृहे ।। ३८३.
तस्योत्पातभयं नास्ति भुक्तिमुक्तिमवाप्नुयात् । यूयं स्मरत चाग्नेयं पुराणं रूपमैश्वरं ३८३.